श्री विष्णु सहस्रनाम स्तोत्र (Shri Vishnu Sahastranam Stotra)

॥ ॐ गण गणपतये नमः ॥

रुद्र उवाच

संसारसागराग्धोरान्मुच्यते किं जपन्प्रभो । नरस्तन्मे परं जप्यं कथय त्वं जनार्दन ॥ १॥

हरिरुवाच

परेश्वरं परं ब्रह्म परमात्मानमव्ययम् । ईश्वरम् परमंविष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥ २॥
यत्पवित्रं परं जप्यं कथयामि वृषध्वज । शृणुष्वावहितो भूत्वा सर्वपापविनाशनम् ॥ ३॥

ॐ वासुदेवो महाविष्णुर्वामनो वासवो वसुः । बालचन्द्रनिभो बालो बलभद्रो बलाधिपः ॥ ४॥
बलिबन्धनकृद्वेधा (११) वरेण्यो वेदवित्कविः । वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुतः ॥ ५॥

वेदाङ्गवेत्ता वेदेशो (२०) बलाधारो बलार्दनः । बलधारो अविकारो वरेशश्च वरुणो वरुणाधिपः ॥ ६॥
वीरहा च बृहद्वीरो वन्दितः परमेश्वरः (३०) । आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः ॥ ७॥

पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः । परमः (४०) परभूतश्च पुरुषोत्तम ईश्वरः ॥ ८॥
पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः । पद्माक्षः पद्मगर्भश्च पर्जन्यः (५०) पद्मसंस्थितः ॥ ९॥

अपारः परमार्थश्च पराणां च परः प्रभुः । पण्डितः पण्डितेड्यश्च पवित्रः पापमर्दकः ॥ १०॥ पण्डितेभ्यश्च
शुद्धः (६०) प्रकाशरूपश्च पवित्रः परिरक्षकः । पिपासावर्जितः पाद्यः पुरुषः प्रकृतिस्तथा ॥ ११॥

प्रधानं पृथिवीपद्मं पद्मनाभः (७०) प्रियप्रदः । सर्वेशः सर्वगः सर्वः सर्ववित्सर्वदः सुरः ॥ १२॥ परः
सर्वस्य जगतो धाम सर्वदर्शी च सर्वभृत् (८०) । सर्वानुग्रहकृद्देवः सर्वभूतहृदिस्थितः ॥ १३॥

सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः । सर्वपः सर्वपूज्यश्च सर्वस्य जगतो मूलं सकलो निष्कलोऽनलः (९०) ॥ १४॥
सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणम् । सर्वध्येयः सर्वमित्रः सर्वदेवस्वरूपधृक् ॥ १५॥

सर्वाध्यक्षः सुराध्यक्षः सुरासुरनमस्कृतः । सर्वाध्यायः दुष्टानां चासुराणां च सर्वदा घातकोऽन्तकः (१०१) ॥ १६॥
सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवन्दितः । सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो हृदीश्वरः ॥ १७॥ सिद्धिसिद्धो

शरणं जगतश्चैव (११०) श्रेयः क्षेमस्तथैव च । शुभकृच्छोभनः सौम्यः सत्यः सत्यपराक्रमः ॥ १८॥
सत्यस्थः सत्यसङ्कल्पः सत्यवित्सत्यदस्तथा (१२१) । सत्पदस्तथा धर्मो धर्मीच कर्मीच सर्वकर्मविवर्जितः ॥ १९॥

कर्मकर्ता च कर्मैव क्रिया कार्यं तथैव च । श्रीपतिर्नृपतिः (१३१) श्रीमान्सर्वस्य पतिरूर्जितः ॥ २०॥
स देवानां पतिश्चैव वृष्णीनां पतिरीडितः । पतिरीरितः पतिर्हिरण्यगर्भस्य त्रिपुरान्तपतिस्तथा ॥ २१॥

पशूनां च पतिः प्रायो वसूनां पतिरेव च (१४०) । पतिराखण्डलस्यैव वरुणस्य पतिस्तथा ॥ २२॥
वनस्पतीनां च पतिरनिलस्य पतिस्तथा । अनलस्य पतिश्चैव यमस्य पतिरेव च ॥ २३॥

कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा । ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा (१५०) ॥ २४॥
नागानां पतिरर्कस्य दक्षस्य पतिरेव च । सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा ॥ २५॥

गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः । पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा ॥ २६॥
सुराणां च पतिः श्रेष्ठः (१६०) कपिलस्य पतिस्तथा । लतानां च पतिश्चैव वीरुधां च पतिस्तथा ॥ २७॥

मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तमः । पतिश्चन्द्रमसः श्रेष्ठः शुक्रस्य पतिरेव च ॥ २८॥
ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा । किन्नराणां पतिश्चैव (१७०) द्विजानां पतिरुत्तमः ॥ २९॥

सरितां च पतिश्चैव समुद्राणां पतिस्तथा । सरसां च पतिश्चैव भूतानां च पतिस्तथा ॥ ३०॥
वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा । पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च ॥ ३१॥

महात्मा (१८०) मङ्गलो मेयो मन्दरो मन्दरेश्वरः । मेरुर्माता प्रमाणं च माधवो मलवर्जितः ॥ ३२॥ मनुवर्जितः
मालाधरो (१९०) महादेवो महादेवेन पूजितः । महाशान्तो महाभागो मधुसूदन एव च ॥ ३३॥

महावीर्यो महाप्राणो मार्कण्डेयर्षिवन्दितः (२००) । प्रवन्दितः मायात्मा मायया बद्धो मायया तु विवर्जितः ॥ ३४॥
मुनिस्तुतो मुनिर्मैत्रो (२१०) महानासो महाहनुः । महारासो महाबाहुर्महादान्तो मरणेन विवर्जितः ॥ ३५॥ महादन्तो

महावक्त्रो महात्मा च महाकायो महोदरः । महाकारो महापादो महाग्रीवो महामानी महामनाः ॥ ३६॥
महागतिर्महाकीर्तिर्महारूपो (२२२) महासुरः । मधुश्च माधवश्चैव महादेवो महेश्वरः ॥ ३७॥

मखेज्यो मखरूपी च माननीयो (२३०) मखेश्वरः । मखेष्टो महेश्वरः महावातो महाभागो महेशोऽतीतमानुषः ॥ ३८॥
मानवश्च मनुश्चैव मानवानां प्रियङ्करः । मृगश्च मृगपूज्यश्च (२४०) मृगाणां च पतिस्तथा ॥ ३९॥

बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः । पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा ॥ ४०॥
लक्ष्मणो लक्षणश्चैव लम्बोष्ठो ललितस्तथा (२५०) । नानालङ्कारसंयुक्तो नानाचन्दनचर्चितः ॥ ४१॥

नानारसोज्ज्वलद्वक्त्रो नानापुष्पोपशोभितः । रामो रमापतिश्चैव सभार्यः परमेश्वरः ॥ ४२॥
रत्नदो रत्नहर्ता च (२६०) रूपी रूपविवर्जितः । महारूपोग्ररूपश्च सौम्यरूपस्तथैव च ॥ ४३॥

नीलमेघनिभः शुद्धः सालमेघनिभस्तथा । कालमेघ धूमवर्णः पीतवर्णो नानारूपो (२७०) ह्यवर्णकः ॥ ४४॥
विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च । सर्ववर्णो महायोगी यज्ञो यज्ञकृदेव च ॥ ४५॥ var याज्यो

सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च (२८०) । सुवर्णो वर्ण सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः ॥ ४६॥
सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव च । सुवर्णस्य प्रियश्चैव (२९०) सुवर्णाढ्यस्तथैव च ॥ ४७॥

सुपर्णी च महापर्णो सुपर्णस्य च कारणम् (२९०) । वैनतेयस्तथादित्य आदिरादिकरः शिवः ॥ ४८॥
कारणं महतश्चैव प्रधानस्य च कारणम् । पुराणस्य बुद्धीनां कारणं चैव कारणं मनसस्तथा ॥ ४९॥

कारणं चेतसश्चैव (३००) अहङ्कारस्य कारणम् । भूतानां कारणं तद्वत्कारणं च विभावसोः ॥ ५०॥
आकाशकारणं तद्वत्पृथिव्याः कारणं परम् । अण्डस्य कारणं चैव प्रकृतेः कारणं तथा ॥ ५१॥

देहस्य कारणं चैव चक्षुषश्चैव कारणम् । श्रोत्रस्य कारणं (३१०) तद्वत्कारणं च त्वचस्तथा ॥ ५२॥
जिह्वायाः कारणं चैव प्राणस्यैव च कारणम् । हस्तयोः कारणं तद्वत्पादयोः कारणं तथा ॥ ५३॥

वाचश्चकारणं तद्वत्पायोश्चैव तु कारणम् । इन्द्रस्य कारणं चैव कुबेरस्य च कारणम् ॥ ५४॥
यमस्य कारणं चैव (३२०) ईशानस्य च कारणम् । यक्षाणां कारणं चैव रक्षसां कारणं परम् ॥ ५५॥

नृपाणां कारणं श्रेष्ठं धर्मस्यैव तु कारणम् । भूषाणां जन्तूनां कारणं चैव वसूनां कारणं परम् ॥ ५६॥
मनूनां कारणं चैव पक्षिणां कारणं परम् । मुनीनां कारणं श्रेष्ठ (३३०) योगिनां कारणं परम् ॥ ५७॥

सिद्धानां कारणं चैव यक्षाणां कारणं परम् । कारणं किन्नराणां च (३४०) गन्धर्वाणां च कारणम् ॥ ५८॥
नदानां कारणं चैव नदीनां कारणं परम् । कारणं च समुद्राणां वृक्षाणां कारणं तथा ॥ ५९॥

कारणं वीरुधां चैव लोकानां कारणं तथा । पातालकारणं चैव देवानां कारणं तथा ॥ ६०॥
सर्पाणां कारणं चैव (३५०) श्रेयसां कारणं तथा । पशूअनां कारणं चैव सर्वेषां कारणं तथा ॥ ६१॥

देहात्मा चेन्द्रियात्मा च आत्मा बुद्धेस्तथैव च । मनसश्च तथैवात्मा चात्माहङ्कारचेतसः ॥ ६२॥
जाग्रतः स्वपतश्चात्मा (३६०) महदात्मा परस्तथा । प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा ॥ ६३॥

पृथिव्याः परमात्मा च रसस्यात्मा तथैव च । वयस्यात्मा गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा ॥ ६४॥
शब्दात्मा चैव (३७०) वागात्मा स्पर्शात्मा पुरुषस्तथा । श्रोत्रात्मा च त्वगात्मा च जिह्वायाः परमस्तथा ॥ ६५॥

घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा (३८०) । उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा ॥ ६६॥
इन्द्रात्मा चैव ब्रह्मात्मा रुद्रात्मा च मनोस्तथा । शान्तात्मा दक्षप्रजापतेरात्मा सत्यात्मा परमस्तथा ॥ ६७॥

ईशात्मा (३९०) परमात्मा च रौद्रात्मा मोक्षविद्यतिः । यत्नवांश्च तथा यत्नश्चर्मी खड्गी मुरान्तकः ॥ ६८॥ खड्ग्यसुरा
ह्रीप्रवर्तनशीलश्च यतीनां च हिते रतः । यतिरूपी च (४००) योगी च योगिध्येयो हरिः शितिः ॥ ६९॥

संविन्मेधा च कालश्च ऊष्मा वर्षा मतिस्तथा (४१०) । नतिस्तथा संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा ॥ ७०॥
मोहकर्ता च दुष्टानां माण्डव्यो वडवामुखः । संवर्तः कालकर्ता च गौतमो भृगुरङ्गिराः (४२०) ॥ ७१॥ संवर्तकः कालकर्ता

अत्रिर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च । याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः ॥ ७२॥
शर्मदश्चैव (४३०) गाङ्गेयो हृषीकेशो बृहच्छ्रवाः । केशवः क्लेशहन्ता च सुकर्णः कर्णवर्जितः ॥ ७३॥

नारायणो महाभागः प्राणस्य पतिरेव च (४४०) । अपानस्य पतिश्चैव व्यानस्य पतिरेव च ॥ ७४॥
उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा । शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य पतिरेव च ॥ ७५॥

रूपाणां च पतिश्चाद्यः खड्गपाणिर्हलायुधः (४५०) । चक्रपाणिः कुण्डली च श्रीवत्साङ्कस्तथैव च ॥ ७६॥
प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा । सुमुखो दुर्मुखश्चैव मुखेन तु विवर्जितः ॥ ७७॥

अनन्तोऽनन्तरूपश्च (४६१) सुनखः सुरमन्दरः । सुकपोलो विभुर्जिष्णुर्भ्राजिष्णुश्चेषुधीस्तथा ॥ ७८॥
हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः (४७०) । निहन्ता पूतनायाश्च भास्करान्तविनाशनः ॥ ७९॥

केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः । कंसदानवभेत्ता च चाणूरस्य प्रमर्दकः ॥ ८०॥
अरिष्टस्य निहन्ता च अक्रूरप्रिय एव च । अक्रूरः क्रूररूपश्च (४८०) अक्रूरप्रियवन्दितः ॥ ८१॥

भगहा भगवान्भानुस्तथा भागवतः स्वयम् । उद्धवश्चोद्धवस्येशो ह्युद्धवेन विचिन्तितः ॥ ८२॥
चक्रधृक्चञ्चलश्चैव (४९०) चलाचलविवर्जितः । अहङ्कारो मतिश्चित्तं गगनं पृथिवी जलम् ॥ ८३॥

वायुश्चक्षुस्तथा श्रोत्रं (५००) जिह्वा च घ्राणमेव च । वाक्पाणिपादजवनः पायूपस्थस्तथैव च ॥ ८४॥
शङ्करश्चैव शर्वश्च क्षान्तिदः क्षान्तिकृन्नरः (५११) । भक्तप्रियस्तथा भर्ता भक्तिमान्भक्तिवर्धनः ॥ ८५॥

भक्तस्तुतो भक्तपरः कीर्तिदः कीर्तिवर्धनः । कीर्तिर्दीप्तिः (५२०) क्षमा कान्तिर्भक्तश्चैव (५३०) दयापरा ॥ ८६॥
दानं दाता च कर्ता च देवदेवप्रियः शुचिः ।शुचिमान्सुखदो (५३१) मोक्षः कामश्चार्थः सहस्रपात् ॥ ८७॥

सहस्रशीर्षा वैद्यश्च मोक्षद्वारस्तथैव च । प्रजाद्वारं सहस्राक्षः सहस्रकर एव च (५४०) ॥ ८८॥ सहस्रान्तः
शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा । प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकरः ॥ ८९॥

मत्स्यः परशुरामश्च (५५०) प्रह्लादो बलिरेवच । शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृत् ॥ ९०॥
खरदूषणहन्ता च रावणस्य प्रमर्दनः । सीतापतिश्च (५६०) वर्धिष्णुर्भरतश्च तथैव च ॥ ९१॥

कुम्भेन्द्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः । नरान्तकान्तकश्चैव देवान्तकविनाशनः ॥ ९२॥
दुष्टासुरनिहन्ता च शम्बरारिस्तथैव च । नरकस्य निहन्ता च त्रिशीर्षस्य विनाशनः (५७०) ॥ ९३॥

यमलार्जुनभेत्ता च तपोहितकरस्तथा । वादित्रश्चैव वाद्यं च बुद्धश्चैव वरप्रदः ॥ ९४॥
सारः सारप्रियः सौरः कालहन्ता निकृन्तनः (५८०) । अगस्त्यो देवलश्चैव नारदो नारदप्रियः ॥ ९५॥

प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः (५९०) शरत् । उदानश्च समानश्च भेषजं च भिषक्तथा ॥ ९६॥
कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः । चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जितः (६००) ॥ ९७॥

हस्तेन्द्रियविहीनश्च पादाभ्यां च विवर्जितः । पायूपस्थविहीनश्च मरुतापविवर्जितः ॥ ९८॥ महातपोविसर्जितः
प्रबोधेन विहीनश्च बुद्ध्या चैव विवर्जितः । चेतसा विगतश्चैव प्राणेन च विवर्जितः ॥ ९९॥

अपानेन विहीनश्च व्यानेन च विवर्जितः (६१०) । उदानेन विहीनश्च समानेन विवर्जितः ॥ १००॥
आकाशेन विहीनश्च वायुना परिवर्जितः । अग्निना च विहीनश्च उदकेन विवर्जितः ॥ १०१॥

पृथिव्या च विहीनश्च शब्देन च विवर्जितः । स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः (६२०) ॥ १०२॥
रागेण विगतश्चैव अघेन परिवर्जितः । शोकेन रहितश्चैव वचसा परिवर्जितः ॥ १०३॥

रजोविवर्जितश्चैव विकारैः षड्भिरेव च । कामेन वर्जितश्चैव क्रोधेन परिवर्जितः ॥ १०४॥
लोभेन विगतश्चैव दम्भेन च विवर्जितः । सूक्ष्मश्चैव (६३०) सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा ॥ १०५॥

विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा । प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा ॥ १०६॥
भूतानां क्षोभकश्चैव बुद्धेश्च क्षोभकस्तथा । इन्द्रियाणां क्षोभकश्च (६४०) विषयक्षोभकस्तथा ॥ १०७॥

ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा । अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च ॥ १०८॥
त्वचा न गम्यः कूर्मश्च जिह्वाग्राह्यस्तथैव च । घ्राणेन्द्रियागम्य एव वाचाग्राह्यस्तथैव च (६५०) ॥ १०९॥

अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च । पादागम्य अग्राह्यो मनसश्चैव बुद्ध्या ग्राह्यो हरिस्तथा ॥ ११०॥
अहम्बुद्ध्या तथा ग्राह्यश्चेतसा ग्राह्य एव च । शङ्खपाणिरव्ययश्च गदापाणिस्तथैव च (६६०) ॥ १११॥

शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्तिः परन्तपः । तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च ॥ ११२॥
ज्ञेयश्च ज्ञेयहीनश्च (६७०) ज्ञप्तिश्चैतन्यरूपकः । भावो भाव्यो भवकरो भावनो भवनाशनः ॥ ११३॥

गोविन्दो गोपतिर्गोपः (६८०) सर्वगोपीसुखप्रदः । गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा ॥ ११४॥ गोपति
उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः । आरणेयो (६९०) बृहद्भानुर्बृहद्दीप्तिस्तथैव च ॥ ११५॥

दामोदरस्त्रिकालश्च कालज्ञः कालवर्जितः । त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं (७००) त्रिविक्रमः ॥ ११६॥
विक्रमो दण्डहस्तश्च ह्येकदण्डी त्रिदण्डधृक् । दरहस्तश्च सामभेदस्तथोपायः सामरूपी च सामगः ॥ ११७॥

सामवेदोः (७१०) ह्यथर्वश्च सुकृतः सुखरूपकः । अथर्ववेदविच्चैव ह्यथर्वाचार्य एव च ॥ ११८॥
ऋग्रूपी चैव ऋग्वेदः ऋग्वेदेषु प्रतिष्ठितः । यजुर्वेत्ता यजुर्वेदो (७२०) यजुर्वेदविदेकपात् ॥ ११९॥

बहुपाच्च सुपाच्चैव तथैव च सहस्रपात् । चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायो यमो बली (७३०) ॥ १२०॥
सन्न्यासी चैव सन्न्यासश्चतुराश्रम एव च । ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ १२१॥

ब्राह्मणः क्षत्रियो वैश्यः (७४०) शूद्रो वर्णस्तथैव च । शीलदः शीलसम्पन्नो दुःशीलपरिवर्जितः ॥ १२२॥
मोक्षोऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः । पूज्यो (७५०) वाक्करणं चैव वाच्यश्चैव तु वाचकः ॥ १२३॥

वेत्ता व्याकरणश्चैव वाक्यं चैव च वाक्यवित् । वाक्यगम्यस्तीर्थवासी (७६०) तीर्थस्तीर्थी च तीर्थवित् ॥ १२४॥
तीर्थादिभूतः साङ्ख्यश्च निरुक्तं त्वधिदैवतम् । प्रणवः प्रणवेशश्च प्रणवेन प्रवन्दितः (७७०) ॥ १२५॥

प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः । शालग्रामनिवासी च (७८०) शालग्रामस्तथैव च ॥ १२६॥
जलशायी योगशायी शेषशायी कुशेशयः । महीभर्ता च (७९०) कार्यं च कारणं पृथिवीधरः ॥ १२७॥

प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट् । सम्राट्पूषा (८००) तथा स्वर्गो रथस्थः सारथिर्बलम् ॥ १२८॥
धनी धनप्रदो धन्यो यादवानां हिते रतः । अर्जुनस्य प्रियश्चैव ह्यर्जुनो (८१०) भीम एव च ॥ १२९॥

पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः । सारस्वतो महाभीष्मः पारिजातहरस्तथा ॥ १३०॥
अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च (८२०) । इन्द्रात्मजस्तस्य गोप्ता गोवर्धनधरस्तथा ॥ १३१॥

कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः । शिपिविष्टः प्रसन्नश्च सर्वलोकार्तिनाशनः ॥ १३२॥
मुद्रो (८३०) मुद्राकरश्चैव सर्वमुद्राविवर्जितः । देही देहस्थितश्चैव देहस्य च नियामकः ॥ १३३॥

श्रोता श्रोत्रनियन्ता च श्रोतव्यः श्रवणस्तथा । त्वक्स्थितश्च (८४०) स्पर्शयिता स्पृश्यं च स्पर्शनं तथा ॥ १३४॥
रूपद्रष्टा च चक्षुःस्थो नियन्ता चक्षुषस्तथा । दृश्यं चैव तु जिह्वास्थो रसज्ञश्च नियामकः (८५०) ॥ १३५॥

घ्राणस्थो घ्राणकृद्घ्राता घ्राणेन्द्रियनियामकः । वाक्स्थो वक्ता च वक्तव्यो वचनं वाङ्नियामकः ॥ १३६॥
प्राणिस्थः (८६०) शिल्पकृच्छिल्पो हस्तयोश्च नियामकः । पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा ॥ १३७॥

नियन्ता पादयोश्चैव पाद्यभाक्च विसर्गकृत् (८७०) । विसर्गस्य नियन्ता च ह्युपस्थस्थः सुखस्तथा ॥ १३८॥
उपस्थस्य नियन्ता च तदानन्दकरश्च ह । शत्रुघ्नः कार्तवीर्यश्च दत्तात्रेयस्तथैव च ॥ १३९॥

अलर्कस्य हितश्चैव कार्तवीर्यनिकृन्तनः (८८०) । कालनेमिर्महानेमिर्मेघो मेघपतिस्तथा ॥ १४०॥
अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः । धूमकृद्धूमरूपश्च (८९०) देवकीपुत्र उत्तमः ॥ १४१॥

देवक्या नन्दनो नन्दो रोहिण्याः प्रिय एव च । वसुदेवप्रियश्चैव वसुदेवसुतस्तथा ॥ १४२॥
दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च (९००) । अट्टहासप्रियश्चैव सर्वाध्यक्षः क्षरोऽक्षरः ॥ १४३॥

अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः । रुक्मिण्याश्च पतिश्चैव रुक्मिण्या वल्लभस्तथा ॥ १४४॥
गोपीनां वल्लभश्चैव (९१०) पुण्यश्लोकश्च विश्रुतः । वृषाकपिर्यमो गुह्यो मङ्गलश्च बुधस्तथा ॥ १४५॥

राहुः केतुर्ग्रहो ग्राहो (९२०) गजेन्द्रमुखमेलकः । ग्राहस्य विनिहन्ता च ग्रामीणी रक्षकस्तथा ॥ १४६॥
किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च । विश्वरूपो विशालाक्षो (९३०) दैत्यसूदन एव च ॥ १४७॥

अनन्तरूपो भूतस्थो देवदानवसंस्थितः । सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानान्त एव च ॥ १४८॥
जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा (९४०) । स्वप्नस्थः स्वप्नवित्स्वप्नस्थानं स्वप्नस्तथैव च ॥ १४९॥

स्वप्नस्थः स्वप्नवित्स्वप्नं स्थानस्थः सुस्थ एव च जाग्रत्स्वप्नसुषुप्तेश्च विहीनो वै चतुर्थकः ।
विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा ॥ १५०॥ चैत्ररूपश्च
भुवनाधिपतिश्चैव भुवनानां नियामकः । पातालवासी पातालं सर्वज्वरविनाशनः ॥ १५१॥

परमानन्दरूपी च धर्माणां च प्रवर्तकः । सुलभो दुर्लभश्चैव प्राणायामपरस्तथा (९६०) ॥ १५२॥
प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा । प्रभा कान्तिस्तथा ह्यर्चिः शुद्धस्फटिकसन्निभः ॥ १५३॥

अग्राह्यश्चैव गौरश्च सर्वः (९७०) शुचिरभिष्टुतः । वषट्कारो वषड्वौषट्स्वधा स्वाहा रतिस्तथा ॥ १५४॥
पक्ता नन्दयिता (९८०) भोक्ता बोद्धा भावयिता तथा । ज्ञानात्मा चैव देहात्मा भूमा सर्वेश्वरेश्वरः ॥ १५५॥ ऊहात्मा

नदी नन्दी च नन्दीशो (९९०) भारतस्तरुनाशनः । चक्रपः श्रीपतिश्चैव नृपाणां चक्रवर्तिनाम् ॥ १५६॥ नृपश्च
ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा । var स्वावकाशं स्थित पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव च (१०००) ॥ १५७॥

भरतो जनको जन्यः सर्वाकारविवर्जितः । निराकारो निर्निमित्तो निरातङ्को निराश्रयः (१००८) ॥ १५८॥
इति नामसहस्रं ते वृषभध्वज कीर्तितम् । देवस्य विष्णोरीशस्य सर्वपापविनाशनम् ॥ १५९॥

पठन्द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात् । वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः ॥ १६०॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीविष्णुसहस्रनामस्तोत्रनिरूपणं नाम पञ्चदशोऽध्यायः ॥

॥ इति श्री विष्णु सहस्रनाम स्तोत्रं सम्पूर्णम ॥

 

प्रिये मित्रों अपनी कुंडली में सर्व दोषों के स्थाई निवारण हेतु हमसे संपर्क करें।
संपर्क सूत्र : kalkajyotish@gmail.com

 

आपको यह जानकारी कैसी लगी कृपया मैसेज कर हमें बताएं

ज्योतिष आचार्या
ममता वशिष्ट
अध्यक्ष एवं प्रबंध निदेशक
कालका ज्योतिष अनुसन्धान संसथान

Leave a Reply

Your email address will not be published. Required fields are marked *