श्री भैरवी कवच (Shri Bhairvi Kavach)

॥ ॐ गण गणपतये नमः ॥

॥ श्री देव्युवाच ॥

भैरव्याः सकला विद्याः श्रुताश्चाधिगता मया । साम्प्रतं श्रोतुमिच्छामि कवचं यत्पुरोदितम् ॥ १॥
त्रैलोक्यविजयं नाम शस्त्रास्त्रविनिवारणम् । त्वत्तः परतरो नाथ कः कृपां कर्तुमर्हति ॥ २॥

॥ ईश्वर उवाच ॥

श्रुणु पार्वति वक्ष्यामि सुन्दरि प्राणवल्लभे ।त्रैलोक्यविजयं नाम शस्त्रास्त्रविनिवारकम् ॥ ३॥
पठित्वा धारयित्वेदं त्रैलोक्यविजयी भवेत् । जघान सकलान्दैत्यान् यधृत्वा मधुसूदनः ॥ ४॥

ब्रह्मा सृष्टिं वितनुते यधृत्वाभीष्टदायकम् । धनाधिपः कुबेरोऽपि वासवस्त्रिदशेश्वरः ॥ ५॥
यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी विभुः । न देयं परशिष्येभ्योऽसाधकेभ्यः कदाचन ॥ ६॥

पुत्रेभ्यः किमथान्येभ्यो दद्याच्चेन्मृत्युमाप्नुयात् । ऋषिस्तु कवचस्यास्य दक्षिणामूर्तिरेव च ॥ ७॥
विराट् छन्दो जगद्धात्री देवता बालभैरवी । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ८॥

अधरो बिन्दुमानाद्यः कामः शक्तिशशीयुतः । भृगुर्मनुस्वरयुतः सर्गो बीजत्रयात्मकः ॥ ९॥
बालैषा मे शिरः पातु बिन्दुनादयुतापि सा ।भालं पातु कुमारीशा सर्गहीना कुमारिका ॥ १०॥

दृशौ पातु च वाग्बीजं कर्णयुग्मं सदावतु । कामबीजं सदा पातु घ्राणयुग्मं परावतु ॥ ११॥
सरस्वतीप्रदा बाला जिह्वां पातु शुचिप्रभा । हस्रैं कण्ठं हसकलरी स्कन्धौ पातु हस्रौ भुजौ ॥ १२॥

पञ्चमी भैरवी पातु करौ हसैं सदावतु । हृदयं हसकलीं वक्षः पातु हसौ स्तनौ मम ॥ १३॥
पातु सा भैरवी देवी चैतन्यरूपिणी मम । हस्रैं पातु सदा पार्श्वयुग्मं हसकलरीं सदा ॥ १४॥

कुक्षिं पातु हसौर्मध्ये भैरवी भुवि दुर्लभा । ऐंईंओंवं मध्यदेशं बीजविद्या सदावतु ॥ १५॥
हस्रैं पृष्ठं सदा पातु नाभिं हसकलह्रीं सदा । पातु हसौं करौ पातु षट्कूटा भैरवी मम ॥ १६॥

सहस्रैं सक्थिनी पातु सहसकलरीं सदावतु । गुह्यदेशं हस्रौ पातु जनुनी भैरवी मम ॥ १७॥
सम्पत्प्रदा सदा पातु हैं जङ्घे हसक्लीं पदौ । पातु हंसौः सर्वदेहं भैरवी सर्वदावतु ॥ १८॥

हसैं मामवतु प्राच्यां हरक्लीं पावकेऽवतु । हसौं मे दक्षिणे पातु भैरवी चक्रसंस्थिता ॥ १९॥
ह्रीं क्लीं ल्वें मां सदा पातु निऋत्यां चक्रभैरवी । क्रीं क्रीं क्रीं पातु वायव्ये हूँ हूँ पातु सदोत्तरे ॥ २०॥

ह्रीं ह्रीं पातु सदैशान्ये दक्षिणे कालिकावतु । ऊर्ध्वं प्रागुक्तबीजानि रक्षन्तु मामधःस्थले ॥ २१॥
दिग्विदिक्षु स्वाहा पातु कालिका खड्गधारिणी । ॐ ह्रीं स्त्रीं हूँ फट् सा तारा सर्वत्र मां सदावतु ॥ २२॥

सङ्ग्रामे कानने दुर्गे तोये तरङ्गदुस्तरे । खड्गकर्त्रिधरा सोग्रा सदा मां परिरक्षतु ॥ २३॥
इति ते कथितं देवि सारात्सारतरं महत् । त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ २४॥

यः पठेत्प्रयतो भूत्वा पूजायाः फलमाप्नुयात् । स्पर्धामूद्धूय भवने लक्ष्मीर्वाणी वसेत्ततः ॥ २५॥
यः शत्रुभीतो रणकातरो वा भीतो वने वा सलिलालये वा । वादे सभायां प्रतिवादिनो वा रक्षःप्रकोपाद् ग्रहसकुलाद्वा ॥ २६॥

प्रचण्डदण्डाक्षमनाच्च भीतो गुरोः प्रकोपादपि कृच्छ्रसाध्यात् । अभ्यर्च्य देवीं प्रपठेत्रिसन्ध्यं स स्यान्महेशप्रतिमो जयी च ॥ २७॥
त्रैलोक्यविजयं नाम कवचं मन्मुखोदितम् । विलिख्य भूर्जगुटिकां स्वर्णस्थां धारयेद्यदि ॥ २८॥

कण्ठे वा दक्षिणे बाहौ त्रैलोक्यविजयी भवेत् । तद्गात्रं प्राप्य शस्त्राणि भवन्ति कुसुमानि च ॥ २९॥
लक्ष्मीः सरस्वती तस्य निवसेद्भवने मुखे । एतत्कवचमज्ञात्वा यो जपेद्भैरवीं पराम् ।
बालां वा प्रजपेद्विद्वान्दरिद्रो मृत्युमाप्नुयात् ॥ ३०॥

 

॥ इति श्री भैरवी कवचं सम्पूर्णम् ॥

 

प्रिये मित्रों अपनी कुंडली में सर्व दोषों के स्थाई निवारण हेतु हमसे संपर्क करें।
संपर्क सूत्र : kalkajyotish@gmail.com

 

आपको यह जानकारी कैसी लगी कृपया मैसेज कर हमें बताएं

ज्योतिष आचार्या
ममता वशिष्ट
अध्यक्ष एवं प्रबंध निदेशक
कालका ज्योतिष अनुसन्धान संसथान

Leave a Reply

Your email address will not be published. Required fields are marked *